उ॒त नो॒ वाज᳚सातये॒ पव᳚स्व बृह॒तीरिषः᳚ ।
द्यु॒मदि᳚न्दो सु॒वीर्य᳚म् ॥
द्यु॒मदि᳚न्दो सु॒वीर्य᳚म् ॥
पदपाठः (Word-by-word)
उ॒त । नः॒ । वाज᳚॑सातये । पव᳚स्व । बृ॒ह॒तीः । इषः᳚ ।
द्यु॒॑मत् । इ॒न्दो॒ इति᳚ । सु॒॑वीर्य᳚म् ॥
द्यु॒॑मत् । इ॒न्दो॒ इति᳚ । सु॒॑वीर्य᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
उतापिच नोस्माकं वाजसातये अन्नलाभाय हे इन्दो सोम बृहतीरिषः महतीरसधाराः द्युमत् दीप्तिमत् सुवीर्यं शोभनसामर्थ्यंच पवस्व क्षर । शोभनसामर्थ्योपेताधाराः पवस्वेत्यर्थः । अथवा वाजसातये संग्रामाय बृहतीरिषो द्युमत्सुवीर्यं संपादयितुं पवस्वेति योज्यम् ॥ ४ ॥