श्रवणम्

9.13.2
पव᳚मानमवस्यवो॒ विप्र᳚म॒भि प्र गा᳚यत ।
सु॒ष्वा॒णं दे॒ववी᳚तये ॥
▶ पदपाठः (Word-by-word)
पव᳚मानम् । अ॒व॒स्य॒वः॒ । विप्र᳚म् । अ॒भि । प्र । गा॒य॒त॒ ।
सु॒ष्वा॒णम् । दे॒व॑वी᳚तये ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे अवस्यवो रक्षणकामा उद्गात्रादयो यूयं पवमानं शोधकं विप्रंविशेषेण देवानांप्रीणयितारं विप्रवच्छुद्धंवा । अथवा विप्रइति मेधाविनाम । मेधाविनं देववीतये देवपानाय सुष्वाणं सूयमानं अभिप्रगायत आभिमुख्येन प्रकर्षेण स्तुत ॥ २ ॥