ते नः᳚ सह॒स्रिणं᳚ र॒यिं पव᳚न्ता॒मा सु॒वीर्य᳚म् ।
सु॒वा॒ना दे॒वास॒ इन्द᳚वः ॥
सु॒वा॒ना दे॒वास॒ इन्द᳚वः ॥
पदपाठः (Word-by-word)
ते । नः॒ । स॒ह॒स्रिण᳚म् । र॒यिम् । पव᳚न्ताम् । आ । सु॒॑वीर्य᳚म् ।
सु॒वा॒नाः । दे॒वासः᳚ । इन्द᳚वः ॥
सु॒वा॒नाः । दे॒वासः᳚ । इन्द᳚वः ॥
सायणभाष्यम् (Sayana Commentary)
ते इन्दवः सोमाः नोस्माकं सहस्रिणं सहस्रसंख्योपेतं रयिं धनं सुवीर्यंचापवन्ताम् । कीदृशास्ते सुवानाः सूयमानाः देवासोद्योतनादिगुणकाः ॥ ५ ॥