श्रवणम्

9.50.1
उत्ते॒ शुष्मा᳚स ईरते॒ सिन्धो᳚रू॒र्मेरि᳚व स्व॒नः ।
वा॒णस्य᳚ चोदया प॒विम् ॥
▶ पदपाठः (Word-by-word)
उत् । ते॒ । शुष्मा᳚सः । ई॒र॒ते॒ । सिन्धोः᳚ । ऊ॒र्मेः॑इ᳚व । स्व॒नः ।
वा॒णस्य᳚ । चो॒द॒य॒ । प॒विम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम ते तव शुष्मासः शुष्मावेगा उदीरते उद्गच्छन्ति । तत्रदृष्टान्तः—सिन्धोः समुद्रस्यो र्मेरिव यथा तरंगात्स्वनोध्वनिरुद्गच्छति तद्वदित्यर्थः । सत्वं वाणस्य विसृष्टस्य वाणस्य नालस्य वादित्रविशेषस्य पविं शब्दम् । पविः भारतीति वाङ्गामसुपाठात् । चोदय प्रेरय । वेगेन स्यंदमानस्त्वं विसृष्टबाणशब्दसदृशं शब्दं कुर्वित्यर्थः ॥ १ ॥