श्रवणम्

9.66.4
पव᳚स्व ज॒नय॒न्निषो॒॑भि विश्वा᳚नि॒ वार्या᳚ ।
सखा॒ सखि᳚भ्य ऊ॒तये᳚ ॥
▶ पदपाठः (Word-by-word)
पव᳚स्व । ज॒नय᳚न् । इषः᳚ । अ॒भि । विश्वा᳚नि । वार्या᳚ ।
सखा᳚ । सखि᳚॑भ्यः । ऊ॒तये᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम सखा सखिभूतस्त्वं विश्वानि सर्वाणि वार्या वरणीयानि अस्मद्गतानि स्तोत्रा- ण्यभीलक्षीकृत्य सखिभ्योस्मभ्यं ऊतये रक्षणाय जीवनाय इषोन्नानि जनयन् प्रयच्छन् पवस्वागच्छ् । पवतिर्गतिकर्मा ॥ ४ ॥