श्रवणम्

9.66.7
प्र सो᳚म याहि॒ धार᳚या सु॒त इन्द्रा᳚य मत्स॒रः ।
दधा᳚नो॒ अक्षि᳚ति॒ श्रवः᳚ ॥
▶ पदपाठः (Word-by-word)
प्र । सो॒म॒ । या॒हि॒ । धार᳚या । सु॒तः । इन्द्रा᳚य । म॒त्स॒रः ।
दधा᳚नः । अक्षि᳚ति । श्रवः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम अभिषूयमाण देव मत्सरः इन्द्रस्यमदकरस्त्वं सुतोस्माभिरभिषुतःसन् इन्द्राय इन्द्रार्थं दशापवित्रान्निर्गतया सन्ततया त्वदीयया धारया द्रोणकलशं प्रयाहि प्रकर्षेण प्राप्नुहि । यद्वा हे सोम सुतोभिषुतस्त्वं इन्द्राय मत्सरः मादयितृतमःसन् धारया अग्नौ स्वाहाकारेण पात्रात्पतन्त्या धारया सह त्वमिन्द्रमुपयाहि । कीदृशः अक्षिति अक्षीणं श्रवः । श्रवइत्यन्ननाम । दधानोस्मभ्यं प्रयच्छन् प्रयाहीति ॥ ७ ॥