स म᳚र्मृजा॒न आ॒युभि॒ः प्रय᳚स्वा॒न्प्रय᳚से हि॒तः ।
इन्दु॒रत्यो᳚ विचक्ष॒णः ॥
इन्दु॒रत्यो᳚ विचक्ष॒णः ॥
पदपाठः (Word-by-word)
सः । म॒र्मृ॒जा॒नः । आ॒यु॑भिः᳚ । प्रय᳚स्वान् । प्रय᳚से । हि॒तः ।
इन्दुः᳚ । अत्यः᳚ । वि॒॑च॒क्ष॒णः ॥
इन्दुः᳚ । अत्यः᳚ । वि॒॑च॒क्ष॒णः ॥
सायणभाष्यम् (Sayana Commentary)
आयुभिः कर्मनेतृभिर्मनुष्यैः मर्मृजानः पुनःपुनर्मृज्यमानः शोध्यमानः सइन्दुः ससोमः अ- त्योदेवान् सततं गन्ता भवति । कीदृशः प्रयस्वान् प्रीणनशीलान्नवान् । यद्वा स्तोतृभ्योदेय- त्वेनान्नयुक्तः अतएव प्रयसे हवीरूपायान्नाय हितः विचक्षणः सर्वस्यप्रदर्शनकारी सर्वस्यवि- द्रष्टा वा सोमः देवानभिगन्ता भवति । चक्षिङ्व्यक्तायांवाचि अनुदात्तेतश्चहलादेरितियुच् ॥ २३ ॥