श्रवणम्

9.32.4
उ॒भे सो᳚माव॒चाक᳚शन्मृ॒गो न त॒क्तो अ᳚र्षसि ।
सीद᳚न्नृ॒तस्य॒ योनि॒मा ॥
▶ पदपाठः (Word-by-word)
उ॒भे इति᳚ । सो॒म॒ । अ॒व॒॑चाक᳚शत् । मृ॒गः । न । त॒क्तः । अ॒र्ष॒सि॒ ।
सीद᳚न् । ऋ॒तस्य᳚ । योनि᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम उभे द्यावापृथिव्यौ अवचाकशत् पश्यतिकर्मेदं पश्यन् मृगोन मृगइव नक्तोगव्यैः पयाआदिभिर्मिश्रितःसन् । दध्ना तनक्तीत्यादौ तथा दृष्टत्वात् । अर्षसि गच्छसि च । किं कुर्वन् ऋतस्य यज्ञस्य योनिं स्थानं आसीदन् आश्रयन् गच्छसि यज्ञसाधनाय गच्छसीत्यर्थः ॥ ४ ॥