श्रवणम्

9.106.10
सोमः᳚ पुना॒न ऊ॒र्मिणाव्यो॒ वारं॒ वि धा᳚वति ।
अग्रे᳚ वा॒चः पव᳚मान॒ः कनि᳚क्रदत् ॥
▶ पदपाठः (Word-by-word)
सोमः᳚ । पु॒ना॒नः । ऊ॒र्मिणा᳚ । अव्यः᳚ । वार᳚म् । वि । धा॒व॒ति॒ ।
अग्रे᳚ । वा॒चः । पव᳚मानः । कनि᳚क्रदत् ॥
▶ सायणभाष्यम् (Sayana Commentary)

पुनानः पूयमानः सोमः ऊर्मिणा स्वीयया धारया अव्यः अवेर्वारं वालं पवित्रं विधा वति विविधं गच्छति । कीदृशः पवमानः पूतः वाचः स्तोत्रस्याग्रे कनिक्रदत् पुनः पुनः शब्दंकुर्वन् विधावंति ॥ १० ॥