श्रवणम्

9.106.1
इन्द्र॒मच्छ᳚ सु॒ता इ॒मे वृष᳚णं यन्तु॒ हर᳚यः ।
श्रु॒ष्टी जा॒तास॒ इन्द᳚वः स्व॒र्विदः᳚ ॥
▶ पदपाठः (Word-by-word)
इन्द्र᳚म् । अच्छ᳚ । सु॒ताः । इ॒मे । वृष᳚णम् । य॒न्तु॒ । हर᳚यः ।
श्रु॒ष्टी । जा॒तासः᳚ । इन्द᳚वः । स्वः॒॑विदः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

श्रुष्टी श्रुष्टीति क्षिप्रनाम क्षिप्रं जातासोजाताः इन्दवः पात्रेषु क्षरन्तः स्वर्विदः सर्वज्ञाः हरयोहरितवर्णाः सुताअभिषुताः इमे सोमाः वृषणं कामानां सेक्तारमिन्द्रं अच्छयन्तु अ- भिगच्छन्तु ॥ १ ॥