श्रवणम्

9.106.8
तव᳚ द्र॒प्सा उ᳚द॒प्रुत॒ इन्द्रं॒ मदा᳚य वावृधुः ।
त्वां दे॒वासो᳚ अ॒मृता᳚य॒ कं प᳚पुः ॥
▶ पदपाठः (Word-by-word)
तव᳚ । द्र॒प्साः । उ॒द॒॑प्रुतः᳚ । इन्द्र᳚म् । मदा᳚य । व॒वृ॒धुः॒ ।
त्वाम् । दे॒वासः᳚ । अ॒मृता᳚य । कम् । प॒पुः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

उदप्रुतः वसतीवर्याख्यमुदकं प्रति गच्छंतः यद्वा उदकस्य निर्गमयितारः तव स्वभूता- द्रप्साः द्रुतगामिनोरसाः मदाय मदार्थं इन्द्रं वावृधुर्वर्धयन्ति । ततः देवासोदेवाः इन्द्रादयः कं सुखकरं त्वां अमृताय अमरणार्थं पपुः पिबन्ति ॥ ८ ॥