तं सो᳚तारो धन॒स्पृत᳚मा॒शुं वाजा᳚य॒ यात᳚वे ।
हरिं᳚ हिनोत वा॒जिन᳚म् ॥
हरिं᳚ हिनोत वा॒जिन᳚म् ॥
पदपाठः (Word-by-word)
तम् । सो॒ता॒रः॒ । ध॒न॒॑स्पृत᳚म् । आ॒शुम् । वाजा᳚य । यात᳚वे ।
हरि᳚म् । हि॒नो॒त॒ । वा॒जिन᳚म् ॥
हरि᳚म् । हि॒नो॒त॒ । वा॒जिन᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
हे सोतारोभिषवकर्तार ऋत्विजः धनस्पृतं धनानां स्प्रष्टारं वाजिनं बलिनं आशुं वेगवंतं सोमात्मकं हरिमश्वं वाजाय यज्ञाख्यं संग्रामं यातवे गतुं हिनोत प्रेरयत । यथा योद्धारोयुद्धं गंतुं बलिनं वेगवंतमश्वं प्रेरयन्ति तद्वत् यज्ञमभीगन्तुं बलवन्तं सोमं प्रेरयतेति भावः ॥ १८ ॥