श्रवणम्

9.62.1
ए॒ते अ᳚सृग्र॒मिन्द᳚वस्ति॒रः प॒वित्र᳚मा॒शवः᳚ ।
विश्वा᳚न्य॒भि सौभ᳚गा ॥
▶ पदपाठः (Word-by-word)
ए॒ते । अ॒सृ॒ग्र॒म् । इन्द᳚वः । ति॒रः । प॒वित्र᳚म् । आ॒शवः᳚ ।
विश्वा᳚नि । अ॒भि । सौभ᳚गा ॥
▶ सायणभाष्यम् (Sayana Commentary)

आशवः शीघ्रा एते पवमानाइन्दवः सोमा विश्वानि सर्वाणि सौभगा सौभगानि धनान्य- भिलक्ष्य पवित्रं तिरः असृग्रं ऋत्विग्भिः सृज्यन्ते ॥ १ ॥