श्रवणम्

9.62.19
आ॒वि॒शन्क॒लशं᳚ सु॒तो विश्वा॒ अर्ष᳚न्न॒भि श्रियः᳚ ।
शूरो॒ न गोषु᳚ तिष्ठति ॥
▶ पदपाठः (Word-by-word)
आ॒॑वि॒शन् । क॒लश᳚म् । सु॒तः । विश्वा᳚ । अर्ष᳚न् । अ॒भि । श्रियः᳚ ।
शूरः᳚ । न । गोषु᳚ । ति॒ष्ठ॒ति॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सुतोभिषुतः सोमः कलशं द्रोण्माविशन् विश्वाः सर्वाः श्रियः संपदोभ्यर्षन् अस्मानभिगम- यन् गोषु शत्रूणां पशुषु शूरोन यथाशूरो निःशंकस्तिष्ठति तद्वद्यज्ञेषु निःशंकस्तिष्ठति ॥ १९ ॥