श्रवणम्

9.47.5
सि॒षा॒सतू᳚ रयी॒णां वाजे॒ष्वर्व᳚तामिव ।
भरे᳚षु जि॒ग्युषा᳚मसि ॥
▶ पदपाठः (Word-by-word)
सि॒सा॒सतुः᳚ । र॒यी॒णाम् । वाजे᳚षु । अर्व᳚ताम्॑इव ।
भरे᳚षु । जि॒ग्युषा᳚म् । अ॒सि॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वं भरेषु संग्रामेषु जिग्युषां शत्रुं जयतां रयीणां धनानां सिषासतुः संभक्तुमिच्छुर सि भवसि शत्रून् जयद्भ्योधनानि प्रयच्छसि इत्यर्थः । तत्रदृष्टान्तः—वाजेषु संग्रामेष्वर्वतामिव अश्वानामिव यथा संग्रामं प्रविशद्भ्योश्वेभ्योघासं प्रयच्छन्ति तद्वदित्यर्थः ॥ ५ ॥

तंत्वेति पंचर्चं चतुर्विंशं सूक्तं ऋष्याद्याः पूर्ववत् । तंत्वेत्यनुक्रान्तम् । गतोविनियोगः ।