आत्सोम᳚ इन्द्रि॒यो रसो॒ वज्र᳚ः सहस्र॒सा भु᳚वत् ।
उ॒क्थं यद᳚स्य॒ जाय᳚ते ॥
उ॒क्थं यद᳚स्य॒ जाय᳚ते ॥
पदपाठः (Word-by-word)
आत् । सोमः᳚ । इ॒न्द्रि॒यः । रसः᳚ । वज्रः᳚ । स॒ह॒स्र॒॑साः । भु॒व॒त् ।
उ॒क्थम् । यत् । अ॒स्य॒ । जाय᳚ते ॥
उ॒क्थम् । यत् । अ॒स्य॒ । जाय᳚ते ॥
सायणभाष्यम् (Sayana Commentary)
यद्यदास्येन्द्रस्योक्थं शस्त्रं जायते प्रादुर्भवति तदा आदनन्तरमेवेन्द्रियः इन्द्रस्य प्रियकरोर सोबलवान् वज्रोवज्रसदृशःकेनाप्यहिंस्यः सोमः सहस्रसा अस्मभ्यं अपरिमितस्य धनस्य दाता भवति ॥ ३ ॥