उ॒क्षा मि᳚माति॒ प्रति᳚ यन्ति धे॒नवो᳚ दे॒वस्य᳚ दे॒वीरुप᳚ यन्ति निष्कृ॒तम् ।
अत्य᳚क्रमी॒दर्जु᳚नं॒ वार᳚म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो᳚ अव्यत ॥
अत्य᳚क्रमी॒दर्जु᳚नं॒ वार᳚म॒व्यय॒मत्कं॒ न नि॒क्तं परि॒ सोमो᳚ अव्यत ॥
पदपाठः (Word-by-word)
उ॒क्षा । मि॒मा॒ति॒ । प्रति᳚ । य॒न्ति॒ । धे॒नवः᳚ । दे॒वस्य᳚ । दे॒वीः । उप᳚ । य॒न्ति॒ । निः॒॑कृ॒तम् ।
अति᳚ । अ॒क्र॒मी॒त् । अर्जु᳚नम् । वार᳚म् । अ॒व्यय᳚म् । अत्क᳚म् । न । नि॒क्तम् । परि᳚ । सोमः᳚ । अ॒व्य॒त॒ ॥
अति᳚ । अ॒क्र॒मी॒त् । अर्जु᳚नम् । वार᳚म् । अ॒व्यय᳚म् । अत्क᳚म् । न । नि॒क्तम् । परि᳚ । सोमः᳚ । अ॒व्य॒त॒ ॥
सायणभाष्यम् (Sayana Commentary)
उक्षा रेतसः सेक्ता वृषभः पुरतोमिमाति शब्दायते माङ्माने शब्देच तं वृषभं धेनवो गावः प्रतियन्ति अनुगच्छन्ति तथा देवस्य द्योतमानस्य निः कृतं संस्कृतं स्थानं देवीः देव्यउपयन्ति उपगच्छन्ति । अनेनार्धेन सोमस्तुतिश्चाभिधीयते सोमःसन् द्रोणकलशाभिगम- नकाले शब्दंकरोति तमनुधेनवः प्रीणयित्र्याः स्तुतयः परियन्ति देवस्थानं स्तुतयोभिगच्छ न्ति । तथा सोयंसोमः अर्जुनं श्वेतवर्णं अव्ययमविमयमविस्वभूतं वारं वालं पवित्रमत्यक्र- मीत् अतिक्रामति अतिक्रम्य पात्राणिगच्छतीत्यर्थः । किंच सोमः अत्कंन आत्मीयं कवच- मिव । निक्तमुज्ज्वलं श्रयणद्रव्यं पर्यव्यत परितः संवृणोति ॥ ४ ॥