श्रवणम्

9.69.3 समानपद
अव्ये᳚ वधू॒युः प᳚वते॒ परि᳚ त्व॒चि श्र᳚थ्नी॒ते न॒प्तीरदि᳚तेरृ॒तं य॒ते ।
हरि᳚रक्रान्यज॒तः सं᳚य॒तो मदो᳚ नृ॒म्णा शिशा᳚नो महि॒षो न शो᳚भते ॥
▶ पदपाठः (Word-by-word)
अव्ये᳚ । व॒धू॒॑युः । प॒व॒ते॒ । परि᳚ । त्व॒चि । श्र॒थ्नी॒ते । न॒प्तीः । अदि᳚तेः । ऋ॒तम् । य॒ते ।
हरिः᳚ । अ॒क्रा॒न् । य॒ज॒तः । स॒म्॑य॒तः । मदः᳚ । नृ॒म्णा । शिशा᳚नः । म॒हि॒षः । न । शो॒भ॒ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

वधूयुः वधूभूता वसतीवर्यएकनासहिताआपः तद्वान् सोमः अव्ये अवेः स्वभूते त्वचे चर्मणि परिपवते परितोवर्तते पूतोभवतिवा किंच नप्तीः नप्त्नीः नप्तृशब्दश्चतुर्थापत्यवाची सोमस्य न्प्त्नीः सोमोह्योषधीनामग्नेरेतोनिषिंचति । प्रजापतेरेतोदेवादेवानांरेतोवर्षंवर्षस्यरेत- ओषधयः इतिश्रुतेः । यद्वा नप्तृशब्दोपत्यवाची तस्यापत्यानि सोमः सुधामयैः स्वकिरणैरो- षधीर्वर्धयति तस्मादपत्यभूताअदितेः पृथिवीनामैतत् अदीनायाः पृथिव्याउत्पन्नाओषधीः ऋतं सत्यरूपं यज्ञं यते गच्छति यजमानाय श्रश्नीते अग्रभागे फलिनीः कर्तुं विश्लेषयति । किंच हरिर्हरितवर्णः यजतः सर्वैर्यष्टव्यः अतएव संयतः ग्रहादिषु संगृहीतोमदः माद्यत्यनेनेतिमदः सोमः तादृशः अक्रानक्रामति पात्रेष्ववतिष्ठते यद्वा शत्रूनतिक्रामति क्रमेर्लुङि तिपि बहुलं- छन्दसीति इडागमाभावात् वृद्धौक्रुतायां सिज्लोपेसति हल् ङ्यादिना तिपोलोपे मोनोधा- तोरिति नत्वेकृतेरूपम् । अतएव सोमः नृम्णा स्वबलानि शिशानः तीक्ष्णीकुर्वन् अथवा शत्रु- बलानि तनूकुर्वन् महिषोन महन्नामैतत् महानिव सर्वत्रव्याप्तइव शोभते स्वतेजसा सर्वत्र दीप्यते । यद्वा नः संप्रत्यर्थे इदानीमेवंगुणयुक्तः महान् सोमः शोभतइति ॥ ३ ॥