उपो᳚ म॒तिः पृ॒च्यते᳚ सि॒च्यते॒ मधु᳚ म॒न्द्राज᳚नी चोदते अ॒न्तरा॒सनि᳚ ।
पव᳚मानः संत॒निः प्र᳚घ्न॒तामि᳚व॒ मधु᳚मान्द्र॒प्सः परि॒ वार᳚मर्षति ॥
पव᳚मानः संत॒निः प्र᳚घ्न॒तामि᳚व॒ मधु᳚मान्द्र॒प्सः परि॒ वार᳚मर्षति ॥
पदपाठः (Word-by-word)
उपो॒ इति᳚ । म॒तिः । पृ॒च्यते᳚ । सि॒च्यते᳚ । मधु᳚ । म॒न्द्र॒॑अज᳚नी । चो॒द॒ते॒ । अ॒न्तः । आ॒सनि᳚ ।
पव᳚मानः । स॒म्॑त॒निः । प्र॒घ्न॒ताम्॑इ᳚व । मधु᳚॑मान् । द्र॒प्सः । परि᳚ । वार᳚म् । अ॒र्ष॒ति॒ ॥
पव᳚मानः । स॒म्॑त॒निः । प्र॒घ्न॒ताम्॑इ᳚व । मधु᳚॑मान् । द्र॒प्सः । परि᳚ । वार᳚म् । अ॒र्ष॒ति॒ ॥
सायणभाष्यम् (Sayana Commentary)
अस्मिन् पवमानरूपे स्तोत्रे इन्द्रे मतिः स्तुतिरुपोपृच्यते उपपृच्यते स्तोतृभिः संयोज्य ते पृचीसंपर्के । तथा मधु मदकरः सोमः इन्द्रार्थं सिच्यते । अद्भिर्यवसक्तुभिश्च सिक्तोभव- ति । ततश्च मन्द्राजनी अजगतिक्षेपणयोरित्यस्य ल्युटि ङीपि रूपम् । मदकरस्य रससुअ प्रेर- यित्री सोमधारा तस्येन्द्रस्य आसनि आस्येन्तर्मध्ये चोदते यष्टृभिः प्रेर्यते । आस्यशब्दस्य पद्दन्नोमासित्यादिनाआसन्नित्यादेशः । किंच संतनिः गृहादिषु सम्यक् विस्तृतः मधुमान् । मदकररसवान् पवमानः पूयमानः सोमः द्रप्सः द्रुतगमनशीलः । यद्वा क्षिप्रं हननशीलःसन् वारं अविवालमयं पवित्रं परितः अर्षति आगच्छति । तत्रदृष्टान्तः—प्रघ्रतामिव । प्रकर्षेणहं- तॄणां योद्धॄणां संतनिः सम्यग्विसृष्टः शरो यथा शीघ्रंप्राप्यमभितोगच्छति तद्वत् ॥ २ ॥