श्रवणम्

9.69.6
सूर्य᳚स्येव र॒श्मयो᳚ द्रावयि॒त्नवो᳚ मत्स॒रासः᳚ प्र॒सुपः᳚ सा॒कमी᳚रते ।
तन्तुं᳚ त॒तं परि॒ सर्गा᳚स आ॒शवो॒ नेन्द्रा᳚दृ॒ते प᳚वते॒ धाम॒ किं च॒न ॥
▶ पदपाठः (Word-by-word)
सूर्य᳚स्य॑इव । र॒श्मयः᳚ । द्र॒व॒यि॒त्नवः᳚ । म॒त्स॒रासः᳚ । प्र॒॑सुपः᳚ । सा॒कम् । ई॒र॒ते॒ ।
तन्तु᳚म् । त॒तम् । परि᳚ । सर्गा᳚सः । आ॒शवः᳚ । न । इन्द्रा᳚त् । ऋ॒ते । प॒व॒ते॒ । धाम᳚ । किम् । च॒न ॥
▶ सायणभाष्यम् (Sayana Commentary)

सूर्यस्यरश्मयः सर्वस्यप्रेरकस्य सुवीर्यस्य वादित्यस्य रश्मयः सर्वतोव्यापकाः किरणा- इव द्रावयित्नवः सर्वत्रद्रवणशीलाः मत्सरासोमदकराः प्रसुपः शत्रूणां प्रस्वापकाः हन्तार आशवोग्रहेषुचमसेषुच व्याप्ताः सर्गासः सृज्यमानाः सोमाः ततं विस्तृतं तन्तुं तन्तुभिः कृतं वस्त्रं साकंसह युगपत् परिईरते परितोगच्छन्ति तेसोमाइन्द्रादृते इन्द्रंवर्जयित्वान्यत्किं चन धाम देवशरीरं लक्षीकृत्य नपवते नगच्छति । एकवचनं छान्दसं नगच्छन्ति किंतु इन्द्रस्यैव धाम प्रति गच्छन्ति । इन्द्रस्य धाम्नोयष्टव्यत्वंच—अयाळिन्द्रस्यप्रियाधामानीति । मंत्रवर्णादवगम्यते ॥ ६ ॥