श्रवणम्

9.69.8
आ नः᳚ पवस्व॒ वसु᳚म॒द्धिर᳚ण्यव॒दश्वा᳚व॒द्गोम॒द्यव᳚मत्सु॒वीर्य᳚म् ।
यू॒यं हि सो᳚म पि॒तरो॒ मम॒ स्थन᳚ दि॒वो मू॒र्धान॒ः प्रस्थि᳚ता वय॒स्कृतः᳚ ॥
▶ पदपाठः (Word-by-word)
आ । नः॒ । प॒व॒स्व॒ । वसु᳚॑मत् । हिर᳚ण्य॑वत् । अश्व᳚॑वत् । गो॑म᳚त् । यव᳚॑मत् । सु॒॑वीर्य᳚म् ।
यू॒यम् । हि । सो॒म॒ । पि॒तरः᳚ । मम᳚ । स्थन᳚ । दि॒वः । मू॒र्धानः᳚ । प्र॑स्थि᳚ताः । व॒यः॒॑कृतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम वसुमत् वसुयुक्तं हिरण्यवत् कनकादिसहितं अश्ववत् गोमत् गवाश्वसहितं यवमत् यवोनामधान्यविशेषः धान्यविशिष्टं सुवीर्यं शोभनवीर्योपेतं धनं नोस्मभ्यमापव- स्व आप्रापय प्रयच्छेतियावत् । किंच हेसोम यतस्त्वं ममपितॄणामंगिसामपि पितासि ततोयूयमेव ममपितरःस्थन भवथ पितृबहुत्वमस्यसोमस्याभिधीयते । कीदृशाः दिवोद्यु- लोकस्यमूर्धानः मूर्धवदुच्छ्रिताः कर्मभिः स्वर्गादिकं अलभन्तेत्यर्थः । प्रस्थिताः सर्वदाकर्मक- रणार्थंस्थिता वयस्कृतः हवीरूपस्यान्नस्य कर्तारः तादृशाममपितरः त्वं भवसि ॥ ८ ॥