श्रवणम्

9.8.1
ए॒ते सोमा᳚ अ॒भि प्रि॒यमिन्द्र᳚स्य॒ काम᳚मक्षरन् ।
वर्ध᳚न्तो अस्य वी॒र्य᳚म् ॥
▶ पदपाठः (Word-by-word)
ए॒ते । सोमाः᳚ । अ॒भि । प्रि॒यम् । इन्द्र᳚स्य । काम᳚म् । अ॒क्ष॒र॒न् ।
वर्ध᳚न्तः । अ॒स्य॒ । वी॒र्य᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एते अभिषुता इमे सोमाः अस्येन्द्रस्य वीर्यं शक्तिं वर्धन्तो वर्धयन्त इन्द्रस्य कामं काम्यं प्रियं प्रीतिकरं रसं अभ्यक्षरन् अभिपवन्ते अभ्यवर्षन् ॥ १ ॥