ए॒ष शु॒ष्म्यदा᳚भ्य॒ः सोमः᳚ पुना॒नो अ᳚र्षति ।
दे॒वा॒वीर᳚घशंस॒हा ॥
दे॒वा॒वीर᳚घशंस॒हा ॥
पदपाठः (Word-by-word)
ए॒षः । शु॒ष्मी । अदा᳚भ्यः । सोमः᳚ । पु॒ना॒नः । अ॒र्ष॒ति॒ ।
दे॒व॒॑अ॒वीः । अ॒घ॒शं॒स॒॑हा ॥
दे॒व॒॑अ॒वीः । अ॒घ॒शं॒स॒॑हा ॥
सायणभाष्यम् (Sayana Commentary)
एषसोमः शुष्मी बलवान् अदाभ्यः अदंभनीयः पुनानः पूयमानः अर्षति गच्छति देवावीर्देवानामविता अघशंसहा अघान् शंसतीत्यघशंसास्तेषां हन्ता ॥ ६ ॥
प्रास्येति षळृचं पंचमं सूक्तं नृमेधस्यांगिरसस्यार्षं गायत्रं पवमानसोमदेवताकम् । अनुक्रम्यतेच-प्रास्यनृमेधइति । गतोविनियोगः ।