श्रवणम्

9.28.5
ए॒ष सूर्य᳚मरोचय॒त्पव᳚मानो॒ विच᳚र्षणिः ।
विश्वा॒ धामा᳚नि विश्व॒वित् ॥
▶ पदपाठः (Word-by-word)
ए॒षः । सूर्य᳚म् । अ॒रो॒च॒य॒त् । पव᳚मानः । वि॑च᳚र्षणिः ।
विश्वा᳚ । धामा᳚नि । वि॒श्व॒॑वित् ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषसोमः सूर्यमरोचयत् रोचयति स्वरसेन । पवमानः पूयमानो विचर्षणिः सर्वस्य द्रष्टा विश्ववित् सर्ववित् । नकेवलं सूर्यं किंतु विश्वा सर्वाणि धामानि तेजःस्थानानि रोचयति ॥ ५ ॥