श्रवणम्

9.74.8
अध᳚ श्वे॒तं क॒लशं॒ गोभि᳚र॒क्तं कार्ष्म॒न्ना वा॒ज्य᳚क्रमीत्सस॒वान् ।
आ हि᳚न्विरे॒ मन᳚सा देव॒यन्त᳚ः क॒क्षीव᳚ते श॒तहि᳚माय॒ गोना᳚म् ॥
▶ पदपाठः (Word-by-word)
अध᳚ । श्वे॒तम् । क॒लश᳚म् । गोभिः᳚ । अ॒क्तम् । कार्ष्म᳚न् । आ । वा॒जी । अ॒क्र॒मी॒त् । स॒स॒॑वान् ।
आ । हि॒न्वि॒रे॒ । मन᳚सा । दे॒व॒॑यन्तः᳚ । क॒क्षीव᳚ते । श॒त॑हि᳚माय । गोना᳚म् ॥
▶ सायणभाष्यम् (Sayana Commentary)

अध अथानन्तरं संप्रतिसोमसंसर्गात् श्वेतवर्णं गोभिरुदकैः अक्तं संपृक्तं द्रोणकलशं सस- वान् संभजन् सोम आक्रमीत् आक्रमते कार्ष्मन् कार्ष्मशब्दः काष्ठावचनः आजिंधावन्तोयो द्धारोयांगन्तुमिच्छन्ति तस्यां काष्ठायां वाजी कश्चिदश्वो युद्धंभजमानः आक्रमीत् आक्रमते सोमः काष्ठायां द्रोणकलशेपततीत्यर्थः । ततस्तस्मैसोमाय देवयन्तः देवानिच्छन्तः ऋत्विजः मनसा आहिन्विरे स्तुतीराभिमुख्येनप्रेरयन्ति । तत्र शतहिमाय बहुगमनाय कक्षीवते स्तो- त्रकरिणे एतन्नामकाय ऋषये सोमः गोनां गाः पशून् प्रेरयति गोःपादान्तइतिनुडागमः क्रियाग्रहणंकर्तव्यमिति संप्रदानसंज्ञा चतुर्थ्यर्थेषष्ठी ॥ ८ ॥