दि॒वो यः स्क॒म्भो ध॒रुण॒ः स्वा᳚तत॒ आपू᳚र्णो अं॒शुः प॒र्येति᳚ वि॒श्वतः᳚ ।
सेमे म॒ही रोद᳚सी यक्षदा॒वृता᳚ समीची॒ने दा᳚धार॒ समिषः᳚ क॒विः ॥
सेमे म॒ही रोद᳚सी यक्षदा॒वृता᳚ समीची॒ने दा᳚धार॒ समिषः᳚ क॒विः ॥
पदपाठः (Word-by-word)
दि॒वः । यः । स्क॒म्भः । ध॒रुणः᳚ । सु॑आ᳚ततः । आ॑पू᳚र्णः । अं॒शुः । प॒रि॒॑एति᳚ । वि॒श्वतः᳚ ।
सः । इ॒मे इति᳚ । म॒ही इति᳚ । रोद᳚सी॒ इति᳚ । य॒क्ष॒त् । आ॒॑वृता᳚ । स॒मी॒ची॒ने इति᳚ स॒म्॑ई॒ची॒ने । दा॒धा॒र॒ । सम् । इषः᳚ । क॒विः ॥
सः । इ॒मे इति᳚ । म॒ही इति᳚ । रोद᳚सी॒ इति᳚ । य॒क्ष॒त् । आ॒॑वृता᳚ । स॒मी॒ची॒ने इति᳚ स॒म्॑ई॒ची॒ने । दा॒धा॒र॒ । सम् । इषः᳚ । क॒विः ॥
सायणभाष्यम् (Sayana Commentary)
दिवोद्युलोकस्य स्कंभः विष्कंभयिता संरोद्धा धरुणः सर्वस्यधारकः यद्वा पृथिव्याधार- कः । विष्टंभोदिवोधरुणः पृथिव्याइत्याम्नानात् । तादृशः स्वाततः सुष्ठुसर्वत्र विततो विस्तृतः अतएवापूर्णः पात्रेषु संपूर्णोयोंशुः सोमात्मकः विश्वतः सर्वतः पर्येति । तिङिचोदात्तवतीति गतेर्निघातः ससोम इमे मही महत्यौ रोदसी द्यावापृथिव्यौ आवृता आसंभजनीयेन कर्म- णा यक्षत् यजतु स्वबलेन संयोजयत्वित्यर्थः ततः सोयं समीचीने परस्परं संगते द्यावा- पृथिव्यौ दाधार धारयांचकार । तुजादीनामित्यभ्यासस्यदीर्घः । अनन्तरं कविः क्रान्तकर्मा इषोन्नानि स्तोतृभ्यः संप्रयच्छतु । उपसर्गश्रुतेर्योग्यक्रियाध्याहारः ॥ २ ॥