श्रवणम्

9.74.5
अरा᳚वीदं॒शुः सच᳚मान ऊ॒र्मिणा᳚ देवा॒व्यं१॒᳚ मनु᳚षे पिन्वति॒ त्वच᳚म् ।
दधा᳚ति॒ गर्भ॒मदि᳚तेरु॒पस्थ॒ आ येन᳚ तो॒कं च॒ तन᳚यं च॒ धाम᳚हे ॥
▶ पदपाठः (Word-by-word)
अरा᳚वीत् । अं॒शुः । सच᳚मानः । ऊ॒र्मिणा᳚ । दे॒व॒॑अ॒व्य᳚म् । मनु᳚षे । पि॒न्व॒ति॒ । त्वच᳚म् ।
दधा᳚ति । गर्भ᳚म् । अदि᳚तेः । उ॒प॑स्थे᳚ । आ । येन᳚ । तो॒कम् । च॒ । तन᳚यम् । च॒ । धाम᳚हे ॥
▶ सायणभाष्यम् (Sayana Commentary)

ऊर्मिणा वसतीवर्यादीनामुदकानां संघेन सचमानः ऋत्विग्भिः सेचमानः अंशुः सोमः अरावीत् शब्दं करोति । किंच ससोमः देवाव्यं अवरक्षणे अवितॄस्तृतंत्रिभ्यईरितिईप्रत्ययः । देवानां पालयित्रीं त्वचं आत्मनः शरीरं मनुषे मनुष्याय यजमानाय पिन्वति सिंचति पा- त्रेषु क्षरतीतियावत् । अपिच अदितेरदीनायाः पृथिव्याउपस्थे समीपे ओषधीषु तं गर्भमा- दधाति सुधामयैः किरणैर्विदधाति । येन गर्भेण वयं तोकं दुःखनाशकं पुत्रं च तनयं तनोति- कुलमिति तनयः पौत्रः तं च धामहे दध्महे धारयामः । दधार्तेर्लटिबहुलंछन्दसीति शपो- लुक् ॥ ५ ॥