श्रवणम्

9.74.6
स॒हस्र᳚धा॒रे॑व॒ ता अ᳚स॒श्चत᳚स्तृ॒तीये᳚ सन्तु॒ रज᳚सि प्र॒जाव᳚तीः ।
चत᳚स्रो॒ नाभो॒ निहि᳚ता अ॒वो दि॒वो ह॒विर्भ᳚रन्त्य॒मृतं᳚ घृत॒श्चुतः᳚ ॥
▶ पदपाठः (Word-by-word)
स॒हस्र᳚॑धारे । अव᳚ । ताः । अ॒स॒श्चतः᳚ । तृ॒तीये᳚ । स॒न्तु॒ । रज᳚सि । प्र॒जा॑व᳚तीः ।
चत᳚स्रः । नाभः᳚ । नि॑हि᳚ताः । अ॒वः । दि॒वः । ह॒विः । भ॒र॒न्ति॒ । अ॒मृत᳚म् । घृ॒त॒॑श्चुतः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

सहस्रधारे बहूदकधारे तृतीये रजसि लोके स्वर्गे वर्तमाना असश्चतः परस्परमशक्ताः प्रजावतीः उत्पादित प्रजावत्यः सोमस्यस्व भूतास्ताः अवसन्तु अवस्तात् पृथिव्यां पतन्तु । कास्ताइत्याह चतस्रोनाभो नभसोबाधिकाः सोमस्य संबन्धिन्यश्चतस्रोदीप्तयः कलाः दिवो द्युलोकादवः अवस्तात् निहिताः सोमेन स्थापितास्ताः घृतश्चुतः घृतस्य उदकस्य च्याव- यित्र्यः सत्यः हविः सोमादिलक्षणंभरन्ति देवानां प्रयच्छन्ति । तथा अमृतं गोष्वोषधीषुच पयोरूपं सुधारूपंच भरन्ति प्रक्षिपन्ति ॥ ६ ॥