श्रवणम्

9.27.6
ए॒ष शु॒ष्म्य᳚सिष्यदद॒न्तरि᳚क्षे॒ वृषा॒ हरि᳚ः ।
पु॒ना॒न इन्दु॒रिन्द्र॒मा ॥
▶ पदपाठः (Word-by-word)
ए॒षः । शु॒ष्मी । अ॒सि॒स्य॒द॒त् । अ॒न्तरि᳚क्षे । वृषा᳚ । हरिः᳚ ।
पु॒ना॒नः । इन्दुः᳚ । इन्द्र᳚म् । आ ॥
▶ सायणभाष्यम् (Sayana Commentary)

एषशुप्मी बलवान्सोमोन्तरिक्षे दशापवित्रे असिष्यदत् स्यन्दते । कीदृशएषः वृषा वर्षकोहरिर्हरितवर्णः पुनानः पयमानइन्दुर्दीप्तश्च इन्द्रमा इन्द्रंचाभिगच्छतीतिशेषः । आइतिचार्थे ॥ ६ ॥

एषवाजीति षळृचं चतुर्थं सूक्तं प्रियमेधस्यार्षं गायत्रं सौम्यम् । एषवाजीप्रियमेधइत्यनुक्रान्तम् । गतोविनियोगः ।