द्वि॒ता व्यू॒र्ण्वन्न॒मृत᳚स्य॒ धाम᳚ स्व॒र्विदे॒ भुव᳚नानि प्रथन्त ।
धियः᳚ पिन्वा॒नाः स्वस᳚रे॒ न गाव᳚ ऋता॒यन्ती᳚र॒भि वा᳚वश्र॒ इन्दु᳚म् ॥
धियः᳚ पिन्वा॒नाः स्वस᳚रे॒ न गाव᳚ ऋता॒यन्ती᳚र॒भि वा᳚वश्र॒ इन्दु᳚म् ॥
पदपाठः (Word-by-word)
द्वि॒ता । वि॒॑ऊ॒र्ण्वन् । अ॒मृत᳚स्य । धाम᳚ । स्वः॒॑विदे᳚ । भुव᳚नानि । प्र॒थ॒न्त॒ ।
धियः᳚ । पि॒न्वा॒नाः । स्वस᳚रे । न । गावः᳚ । ऋ॒त॒॑यन्तीः᳚ । अ॒भि । वा॒व॒श्रे॒ । इन्दु᳚म् ॥
धियः᳚ । पि॒न्वा॒नाः । स्वस᳚रे । न । गावः᳚ । ऋ॒त॒॑यन्तीः᳚ । अ॒भि । वा॒व॒श्रे॒ । इन्दु᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
अमृतस्योदकस्यधाम धारकंस्थानमन्तरिक्षं सोमोद्विता द्विधा व्यूर्ण्वन् उभयतः स्वते- जसाच्छादयन् मध्येनगच्छति । ततः स्वर्विदे सर्वज्ञाय तस्मै सोमाय भुवनानि प्रथन्त विस्तीर्णानिभवन्ति । तस्यरश्मीनां संचरणार्थं प्रथन्तइत्यर्थः । अथ पिन्वानाः प्रीणयित्र्यः धियः स्तुतिलक्षणावाचः ऋतायन्तीर्यज्ञमिच्छंत्यः सत्यः तमिममिंदुं सोममभिलक्ष्य स्वसरे यागाहनि वावश्रे शब्दायन्ते । यद्वा सोमं कामयन्ते । तत्रदृष्टान्तः—गावोन यथापिन्वमा- नाः पयः क्षरंत्योगावः स्वसरे सुष्ठु अस्यन्ते प्रेर्यंते गावोत्रेति स्वसरोगोष्ठं तस्मिन्नच्छाभि- लक्ष्य शब्दंकुर्वन्ति तद्वत् ॥ २ ॥