श्रवणम्

9.94.3
परि॒ यत्क॒विः काव्या॒ भर᳚ते॒ शूरो॒ न रथो॒ भुव᳚नानि॒ विश्वा᳚ ।
दे॒वेषु॒ यशो॒ मर्ता᳚य॒ भूष॒न्दक्षा᳚य रा॒यः पु᳚रु॒भूषु॒ नव्य᳚ः ॥
▶ पदपाठः (Word-by-word)
परि᳚ । यत् । क॒विः । काव्या᳚ । भर᳚ते । शूरः᳚ । न । रथः᳚ । भुव᳚नानि । विश्वा᳚ ।
दे॒वेषु᳚ । यशः᳚ । मर्ता᳚य । भूष᳚न् । दक्षा᳚य । रा॒यः । पु॒रु॒॑भूषु᳚ । नव्यः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

कविः क्रान्तप्रज्ञः सोमः काव्या काव्यानि कवेः कर्माणि स्तोत्राणि यद्यदा परिभरते परितोबिभर्ति परिगच्छतीतियावत् । कथमिव शूरोन यथाशूरः शत्रूणांबाधकोरथस्तदीयः विश्वा भुवनानि सांग्रामिकानि भूतानि परियाति तद्वत् तदानीं देवेषुस्थितं यशोव्यापकं धनं मर्ताय मनुष्याय स्तोत्रे भूषन् भवतेरन्तर्भावितण्यर्थात् सनिरूपं भावयितुमिच्छन् सोमः रायः आत्मना दत्तस्यधनस्य दक्षाय वृध्यर्थं पुरुभूषु बहुषुयज्ञभवनेषु नव्यः स्तोत- व्योभवति । णुस्तुतौ अचोयत् ॥ ३ ॥