अर᳚ममाणो॒ अत्ये᳚ति॒ गा अ॒भि सूर्य᳚स्य प्रि॒यं दु᳚हि॒तुस्ति॒रो रव᳚म् ।
अन्व᳚स्मै॒ जोष᳚मभरद्विनंगृ॒सः सं द्व॒यीभि॒ः स्वसृ᳚भिः क्षेति जा॒मिभि᳚ः ॥
अन्व᳚स्मै॒ जोष᳚मभरद्विनंगृ॒सः सं द्व॒यीभि॒ः स्वसृ᳚भिः क्षेति जा॒मिभि᳚ः ॥
पदपाठः (Word-by-word)
अर᳚ममाणः । अति᳚ । ए॒ति॒ । गाः । अ॒भि । सूर्य᳚स्य । प्रि॒यम् । दु॒हि॒तुः । ति॒रः । रव᳚म् ।
अनु᳚ । अ॒स्मै॒ । जोष᳚म् । अ॒भ॒र॒त् । वि॒न॒म्॑गृ॒सः । सम् । द्व॒यीभिः᳚ । स्वसृ᳚॑भिः । क्षे॒ति॒ । जा॒मि॑भिः᳚ ॥
अनु᳚ । अ॒स्मै॒ । जोष᳚म् । अ॒भ॒र॒त् । वि॒न॒म्॑गृ॒सः । सम् । द्व॒यीभिः᳚ । स्वसृ᳚॑भिः । क्षे॒ति॒ । जा॒मि॑भिः᳚ ॥
सायणभाष्यम् (Sayana Commentary)
ससोमः अरममाणः अनुपरतःसन् पुनःपुनः देवानांप्रीणनाय ग्रहादीनि प्रविशन्नित्यर्थः । गा गोविकारानाश्रयणानभिलक्ष्य अत्येति अतिक्रम्य गच्छति । ततः शब्दायमानाः सोमः सूर्यस्यादित्यस्य दुहितुरुषसः प्रियं रवं शब्दं तिरः तिरस्करोति । तस्मिन् काले सोमाभि- षवध्वनिर्महान् भवतीत्यर्थः । विनंगृसः विनं कमनीयं स्तोत्रं गृःह्णातीतिविनंगृसः स्तोता जोषं जुषेर्घञिरूपम् । पर्याप्तं स्तोत्रं तस्मै सोमाय अन्वभरत् अनुभरति । करोतीतियावत् । सोयंसोमः द्वयीभिः द्वाभ्यांपाणिभ्यामुत्पन्नाभिः जामिभिः परस्परंबन्धुभिः स्वसृभिः कर्म करणार्थमितस्ततोगच्छन्तीभिरंगुलिभिः संक्षेति संगच्छते क्षिनिवासगत्योः छान्दसोविकरण- स्य लुक् ॥ ३ ॥