नाभा᳚ पृथि॒व्या ध॒रुणो᳚ म॒हो दि॒वो॒३॒᳚॑पामू॒र्मौ सिन्धु᳚ष्व॒न्तरु᳚क्षि॒तः ।
इन्द्र᳚स्य॒ वज्रो᳚ वृष॒भो वि॒भूव᳚सु॒ः सोमो᳚ हृ॒दे प᳚वते॒ चारु᳚ मत्स॒रः ॥
इन्द्र᳚स्य॒ वज्रो᳚ वृष॒भो वि॒भूव᳚सु॒ः सोमो᳚ हृ॒दे प᳚वते॒ चारु᳚ मत्स॒रः ॥
पदपाठः (Word-by-word)
नाभा᳚ । पृ॒थि॒व्याः । ध॒रुणः᳚ । म॒हः । दि॒वः । अ॒पाम् । ऊ॒र्मौ । सिन्धु᳚षु । अ॒न्तः । उ॒क्षि॒तः ।
इन्द्र᳚स्य । वज्रः᳚ । वृ॒ष॒भः । वि॒भु॑व᳚सुः । सोमः᳚ । हृ॒दे । प॒व॒ते॒ । चारु᳚ । म॒त्स॒रः ॥
इन्द्र᳚स्य । वज्रः᳚ । वृ॒ष॒भः । वि॒भु॑व᳚सुः । सोमः᳚ । हृ॒दे । प॒व॒ते॒ । चारु᳚ । म॒त्स॒रः ॥
सायणभाष्यम् (Sayana Commentary)
महोमहतो दिवोद्युलोकस्य धरुणोधारकोयं सोमः पृथिव्याः विस्तीर्णायाभूमेः नाभाना भौ नाभिस्थानीये उच्छ्रितेप्रदेशे—यदुत्तरवेदीनाभिरित्याम्नानात् । उत्तरवेदिस्थाने ऋत्वि- ग्भिः निहितः सिंधुषु स्यन्दमानासु नदीषु अपामुदकानां उर्मौ संघे अन्तर्मध्ये उक्षितः सिक्तः अन्तरिक्षस्थानमध्येवर्तमानइत्यर्थः । तादृशइन्द्रस्य वज्रोवज्रस्थानीयोवृषभः कामा- नांवर्षिता अतएव विभूवसुः व्याप्तधनः सोमः चारु कल्याणं यथाभवति तथा इन्द्रस्य मत्सरः मादयिता सन् हृदे मनसे सुखाय पवते आगच्छति ॥ ७ ॥