श्रवणम्

9.72.4 समानपद
नृधू᳚तो॒ अद्रि᳚षुतो ब॒र्हिषि᳚ प्रि॒यः पति॒र्गवां᳚ प्र॒दिव॒ इन्दु᳚रृ॒त्वियः᳚ ।
पुरं᳚धिवा॒न्मनु᳚षो यज्ञ॒साध᳚न॒ः शुचि᳚र्धि॒या प᳚वते॒ सोम᳚ इन्द्र ते ॥
▶ पदपाठः (Word-by-word)
नृ॑धू᳚तः । अद्रि᳚॑सुतः । ब॒र्हिषि᳚ । प्रि॒यः । पतिः᳚ । गवा᳚म् । प्र॒॑दिवः᳚ । इन्दुः᳚ । ऋ॒त्वियः᳚ ।
पुर᳚न्धि॑वान् । मनु᳚षः । य॒ज्ञ॒॑साध᳚नः । शुचिः᳚ । धि॒या । प॒व॒ते॒ । सोमः᳚ । इ॒न्द्र॒ । ते॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे इन्द्र पवमानगुणविशिष्टेन्द्र ते त्वदर्थं बर्हिषि यज्ञे अयं सोमः धिया स्वेनकर्मणा धारया वा पवते पात्रेषु स्यन्दते । कीदृशः नृधूतः कर्मनेतृभिर्मनुष्यैः शोधितः अद्रिषुतः तथा ग्रावभिरभिषुतः प्रियः देवानां प्रीणयिता गवांपतिः स्वामी इन्द्रोगा अलभत । तस्माद्नवांस्वामी । प्रदिवः पुराणनामैतत् पुराणः इन्दुः पात्रेषु क्षरन् ऋत्वियः ऋतौजातः ऋतोरण् छन्दसिघसितिघसः सित्वेन पदसंज्ञायां भसंज्ञानिमित्तओर्गुणोनभवति । पुरंधि- वान् पुरंधिर्बहुधीरितियास्कः । बहुकर्मवान् मनुषोमनुष्यस्य यज्ञसाधनः शुचिर्दीप्यमानः यद्वा दशापवित्रेण शुद्धः एवंगुणः सोमः इन्द्रार्थं पवते इतिसंबन्धः ॥ ४ ॥