सा॒कं व᳚दन्ति ब॒हवो᳚ मनी॒षिण॒ इन्द्र᳚स्य॒ सोमं᳚ ज॒ठरे॒ यदा᳚दु॒हुः ।
यदी᳚ मृ॒जन्ति॒ सुग᳚भस्तयो॒ नर॒ः सनी᳚ळाभिर्द॒शभि॒ः काम्यं॒ मधु᳚ ॥
यदी᳚ मृ॒जन्ति॒ सुग᳚भस्तयो॒ नर॒ः सनी᳚ळाभिर्द॒शभि॒ः काम्यं॒ मधु᳚ ॥
पदपाठः (Word-by-word)
सा॒कम् । व॒द॒न्ति॒ । ब॒हवः᳚ । म॒नी॒षिणः᳚ । इन्द्र᳚स्य । सोम᳚म् । ज॒ठरे᳚ । यत् । आ॒॑दु॒हुः ।
यदि᳚ । मृ॒जन्ति᳚ । सु॑ग᳚भस्तयः । नरः᳚ । स॑नी᳚ळाभिः । द॒श॑भिः᳚ । काम्य᳚म् । मधु᳚ ॥
यदि᳚ । मृ॒जन्ति᳚ । सु॑ग᳚भस्तयः । नरः᳚ । स॑नी᳚ळाभिः । द॒श॑भिः᳚ । काम्य᳚म् । मधु᳚ ॥
सायणभाष्यम् (Sayana Commentary)
मनीषिणः मनसईशितारः प्राज्ञा बहवःस्तोतारः साकं सहैव युगपत् मंत्रान् वदन्ति तदा स्तुवन्ति यदा इन्द्रस्य जठरे द्रोणकलशे सोममादुहुः ऋत्विजोदुदुहुः तदाभिष्टुवन्ती- ति । दुहेर्लिटि उसि रूपम् । द्विर्वचनस्यछन्दसि विकल्पितत्वादत्रद्विर्वचनाभावः । किंच यदि यदा सुगभस्तयः शोभनबाहुकानरः कर्मनेतारोमनुष्याः काम्यं काम्यमानं मधु मदकरं सोमं सनीळाभिर्दशभिः दशसंख्याकाभिरंगुलीभिर्मृजन्ति सोममभिषुण्वन्ति तदा वदन्ती- त्यन्वयः ॥ २ ॥