श्रवणम्

9.97.49 समानपद
अ॒भि वा॒युं वी॒त्य᳚र्षा गृणा॒नो॒३॒᳚॑भि मि॒त्रावरु᳚णा पू॒यमा᳚नः ।
अ॒भी नरं᳚ धी॒जव᳚नं रथे॒ष्ठाम॒भीन्द्रं॒ वृष᳚णं॒ वज्र᳚बाहुम् ॥
▶ पदपाठः (Word-by-word)
अ॒भि । वा॒युम् । वी॒ती । अ॒र्ष॒ । गृ॒णा॒नः । अ॒भि । मि॒त्रावरु᳚णा । पू॒यमा᳚नः ।
अ॒भि । नर᳚म् । धी॒॑जव᳚नम् । र॒थे॒॑स्थाम् । अ॒भि । इन्द्र᳚म् । वृष᳚णम् । वज्र᳚॑बाहुम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेसोम गृणानः स्तूयमानः त्वं वीती सुपांसुलुगिति चतुर्थ्याःपूर्वसवर्णदीर्घः । वीत्यै पानाय वायुमभ्यर्ष अभिगच्छ । तथा पवित्रेण पूयमानस्त्वं मित्रावरुणा मित्रावरुणौच पानायाभिगच्छ । किंच नरं सर्वस्यनेतारं धीजवनं बुध्यासमंवेगं कुर्वाणं रथेष्ठां रथेस्थां रथेतिष्ठन्तं अनेनाश्विनावभिधीयेते । एकवचनं प्रत्येकविवक्षया समुदायविवक्षयावा । एता दृशावश्विनौचाभिगच्छ । तथा वूषणं कामानां वर्षकं वज्रबाहुं वज्रयुक्तबाहुं इन्द्रंच त्वं- पानायाभिगच्छ ॥ ४९ ॥