उ॒त न᳚ ए॒ना प᳚व॒या प᳚व॒स्वाधि᳚ श्रु॒ते श्र॒वाय्य᳚स्य ती॒र्थे ।
ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ॥
ष॒ष्टिं स॒हस्रा᳚ नैगु॒तो वसू᳚नि वृ॒क्षं न प॒क्वं धू᳚नव॒द्रणा᳚य ॥
पदपाठः (Word-by-word)
उ॒त । नः॒ । ए॒ना । प॒व॒या । प॒व॒स्व॒ । अधि᳚ । श्रु॒ते । श्र॒वाय्य᳚स्य । ती॒र्थे ।
ष॒ष्टिम् । स॒हस्रा᳚ । नै॒गु॒तः । वसू᳚नि । वृ॒क्षम् । न । प॒क्वम् । धू॒न॒व॒त् । रणा᳚य ॥
ष॒ष्टिम् । स॒हस्रा᳚ । नै॒गु॒तः । वसू᳚नि । वृ॒क्षम् । न । प॒क्वम् । धू॒न॒व॒त् । रणा᳚य ॥
सायणभाष्यम् (Sayana Commentary)
हेसोम उतापिच श्रवाय्यस्य सर्वैः श्रवणीयस्य सोमस्य तव श्रुते प्रसिद्धौ यद्वा षष्ठ्य र्थेचतुर्थी श्रुतः शब्दस्य तीर्थे स्थाने नोस्माकं स्वभूतेयज्ञे एना अनया पवया पूयमानया धारया अधि अधिकं पवस्व क्षर । नैगुतः नीचीनं गवन्ते शब्दायन्तइति निगुतः शत्रवः । तेषां हन्तृत्वेन संबन्धी सोयंसोमः षष्टिं सहस्रा षष्टिसंख्याकानि सहस्राणि वसूनि धनानि रणाय शत्रूणां जयार्थं धूनवत् अस्माकमकंपयत् प्रायच्छदितियावत् । कथमिव वृक्षंनपक्वं पक्वफलं वृक्षं यथा कंपयति फलार्थी तद्वत् ॥ ५३ ॥