श्रवणम्

9.97.51
अ॒भी नो᳚ अर्ष दि॒व्या वसू᳚न्य॒भि विश्वा॒ पार्थि᳚वा पू॒यमा᳚नः ।
अ॒भि येन॒ द्रवि᳚णम॒श्नवा᳚मा॒भ्या᳚र्षे॒यं ज᳚मदग्नि॒वन्न᳚ः ॥
▶ पदपाठः (Word-by-word)
अ॒भि । नः॒ । अ॒र्ष॒ । दि॒व्या । वसू᳚नि । अ॒भि । विश्वा᳚ । पार्थि᳚वा । पू॒यमा᳚नः ।
अ॒भि । येन᳚ । द्रवि᳚णम् । अ॒श्नवा᳚म । अ॒भि । आ॒र्षे॒यम् । ज॒म॒द॒ग्नि॒॑वत् । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम पवित्रेण पूयमानस्त्वं दिव्या दिव्यानि दिविभवानि वसूनि धनानि नोस्माक मभ्यर्ष अभिगमय । तथा पार्थिवा पार्थिवानि पृथिव्यांभवानि विश्वा सर्वाणि धनान्यभिगमय । तथा सेन त्वदीयेन सामर्थ्येन द्रविणं धनं वयमभ्यश्नवाम अभिव्याप्नुयाम तत्सा-मर्थ्यमभिगमय । किंच आर्षेयं आर्षाणामृषिपुत्राणां योग्यं धनं जमदग्निवत् जमदग्नेर्यथा त्वं- प्रापयः एवं नोस्माकमपि अभ्यर्ष । यद्वा आर्षेयं आर्षाणां योग्यं मंत्रं जमदग्नेःस्वभूतंमंत्रं यथा स्वादुतममकार्षीः एवमस्माकं तादृशंमंत्रं स्वादुतमंकुर्विति कुत्सोनामऋषिःप्रार्थयते । ॥ ५१ ॥