श्रवणम्

9.97.57 समानपद
इन्दुं᳚ रिहन्ति महि॒षा अद᳚ब्धाः प॒दे रे᳚भन्ति क॒वयो॒ न गृध्रा᳚ः ।
हि॒न्वन्ति॒ धीरा᳚ द॒शभि॒ः क्षिपा᳚भि॒ः सम᳚ञ्जते रू॒पम॒पां रसे᳚न ॥
▶ पदपाठः (Word-by-word)
इन्दु᳚म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद᳚ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः᳚ । न । गृध्राः᳚ ।
हि॒न्वन्ति᳚ । धीराः᳚ । द॒श॑भिः᳚ । क्षिपा᳚भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे᳚न ॥
▶ सायणभाष्यम् (Sayana Commentary)

महिषा महान्तः पूज्यावा अतएवादव्धाः कैश्चिदप्याहिंसिता देवा इन्दुं सोमं रिहन्ति लिहंत्यास्वादयन्ति । किंच देवाः सोममुशन्तः सन्तः पदे तस्यास्य सोमस्य धारास्थाने रेभन्ति शब्दायन्ते । तत्र दृष्टान्तः—कवयोनगृध्राः धनमभिकांक्षमाणाः कवयः स्तोतारो- यथा स्तुवन्तः शब्दायन्ते तद्वत् धीराः कर्मणिकुशला ऋत्विजः दशभिः एतत्संख्याकाभिः क्षिपाभिरंगुलीभिः तमिमंसोमं हिन्वंति अभिषवार्थं प्रेरयन्ति । अपिच रूपं अंशुं अपां वसतीवर्याख्यानां रसेन समंजते सम्यक् सेवयन्ति ॥ ५७ ॥