श्रवणम्

9.97.5
इन्दु᳚र्दे॒वाना॒मुप᳚ स॒ख्यमा॒यन्त्स॒हस्र᳚धारः पवते॒ मदा᳚य ।
नृभि॒ः स्तवा᳚नो॒ अनु॒ धाम॒ पूर्व॒मग॒न्निन्द्रं᳚ मह॒ते सौभ᳚गाय ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । दे॒वाना᳚म् । उप᳚ । स॒ख्यम् । आ॒॑यन् । स॒हस्र᳚॑धारः । प॒व॒ते॒ । मदा᳚य ।
नृ॑भिः᳚ । स्तवा᳚नः । अनु᳚ । धाम᳚ । पूर्व᳚म् । अग᳚न् । इन्द्र᳚म् । म॒ह॒ते । सौभ᳚गाय ॥
▶ सायणभाष्यम् (Sayana Commentary)

देवानामिन्द्रादीनां सख्यं सखिभावं उपायन् उपगच्छन् सहस्रधारः बहुविधधारः इन्दुः सोमः मदाय देवानांमदार्थं पवते कलशादिषुक्षरति । नृभिः कर्मनेतृभिः स्तवानः स्तूयमानः सोमः पूर्वं पुरातनं धाम द्युलोकमनुगच्छति । तदेवाह—महते प्रभूताय सौभगाय सौभाग्याय इन्द्रं अगन् गच्छति । सोमे इन्द्रेण पीते सति यजमानानां महा- सौभाग्यं भवति खलु । अगन् गमेर्लुङि घसेति च्लेर्लुक् मोनोधातोरिति नत्वं ॥ ५ ॥