श्रवणम्

9.97.4
प्र गा᳚यता॒भ्य᳚र्चाम दे॒वान्त्सोमं᳚ हिनोत मह॒ते धना᳚य ।
स्वा॒दुः प᳚वाते॒ अति॒ वार॒मव्य॒मा सी᳚दाति क॒लशं᳚ देव॒युर्न᳚ः ॥
▶ पदपाठः (Word-by-word)
प्र । गा॒य॒त॒ । अ॒भि । अ॒र्चा॒म॒ । दे॒वान् । सोम᳚म् । हि॒नो॒त॒ । म॒ह॒ते । धना᳚य ।
स्वा॒दुः । प॒वा॒ते॒ । अति᳚ । वार᳚म् । अव्य᳚म् । आ । सी॒दा॒ति॒ । क॒लश᳚म् । दे॒व॒॑युः । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हेस्तोतारः प्रगायत सोमं प्रकर्षेणाभिष्टुत । तथा देवान् अभ्यर्चाम अभ्यर्चत पुरुषव्य- त्ययः । यद्वा वयं देवानभिष्टुमः यूयं सोमंस्तुतेति । किंच महते महत् प्रभूतधनाय धनं प्राप्तुं सोमं हिनोत अभिषवार्थं प्रेरयत । क्रियार्थोपपदस्यचकर्मणिस्थानिनइति धनशब्दस्य चतुर्थी । ततः स्वादुः स्वादुकरः सोमः अव्यमविभवं वारं वालं पवित्रमतिपवाते अती- त्यपवते । किंच देवयुः देवान् कामयमानः नोस्मदीयः सोमः कलशं पात्रमासीदाति आसीदति प्रविशति । उभयत्रलेट्यडागमः ॥ ४ ॥