ऋ॒जुः प᳚वस्व वृजि॒नस्य᳚ ह॒न्तापामी᳚वां॒ बाध᳚मानो॒ मृध᳚श्च ।
अ॒भि॒श्री॒णन्पय॒ः पय᳚सा॒भि गोना॒मिन्द्र᳚स्य॒ त्वं तव᳚ व॒यं सखा᳚यः ॥
अ॒भि॒श्री॒णन्पय॒ः पय᳚सा॒भि गोना॒मिन्द्र᳚स्य॒ त्वं तव᳚ व॒यं सखा᳚यः ॥
पदपाठः (Word-by-word)
ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य᳚ । ह॒न्ता । अप᳚ । अमी᳚वाम् । बाध᳚मानः । मृधः᳚ । च॒ ।
अ॒भि॒॑श्री॒णन् । पयः᳚ । पय᳚सा । अ॒भि । गोना᳚म् । इन्द्र᳚स्य । त्वम् । तव᳚ । व॒यम् । सखा᳚यः ॥
अ॒भि॒॑श्री॒णन् । पयः᳚ । पय᳚सा । अ॒भि । गोना᳚म् । इन्द्र᳚स्य । त्वम् । तव᳚ । व॒यम् । सखा᳚यः ॥
सायणभाष्यम् (Sayana Commentary)
हेसोम ऋजुः ऋजुगमनःसन् पवस्व क्षर । किंकुर्वन् वृजिनस्य उपद्रवस्य हन्ता अमी वां रोगरूपं राक्षसं अपबाधमानः तथा अस्मदीयान् मृधोहिंसकान् शत्रूंश्च बाधमानः सन् पवस्व ततः पयआत्मीयंरसं गोनां गवांपयसाक्षीरेण अभिश्रीणन् अभिसंयोजयन् पात्राण्य- भिगच्छसि । अपिच त्वं इन्द्रस्य सखासि हेसोम तव वयं सखायः स्तुत्यस्तोतृत्वयष्टृयष्ट-व्यत्वलक्षणेन सखिभूताः स्मः ॥ ४३ ॥