प्र काव्य᳚मु॒शने᳚व ब्रुवा॒णो दे॒वो दे॒वानां॒ जनि᳚मा विवक्ति ।
महि᳚व्रत॒ः शुचि᳚बन्धुः पाव॒कः प॒दा व᳚रा॒हो अ॒भ्ये᳚ति॒ रेभ᳚न् ॥
महि᳚व्रत॒ः शुचि᳚बन्धुः पाव॒कः प॒दा व᳚रा॒हो अ॒भ्ये᳚ति॒ रेभ᳚न् ॥
पदपाठः (Word-by-word)
प्र । काव्य᳚म् । उ॒शना᳚॑इव । ब्रु॒वा॒णः । दे॒वः । दे॒वाना᳚म् । जनि᳚म । वि॒व॒क्ति॒ ।
महि᳚॑व्रतः । शुचि᳚॑बन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ᳚न् ॥
महि᳚॑व्रतः । शुचि᳚॑बन्धुः । पा॒व॒कः । प॒दा । व॒रा॒हः । अ॒भि । ए॒ति॒ । रेभ᳚न् ॥
सायणभाष्यम् (Sayana Commentary)
उशनेव एतन्नामकऋषिरिव काव्यं कविकर्म स्तोत्रं ब्रुवाणः उच्चारयन् देवः स्तोता अयमृषिः वृषगणोनाम देवानामिन्द्रादीनां जनिम जन्मानि प्रविवक्ति प्रकर्षेण ब्रवीति । वचपरिभाषणे व्यत्ययेनविकरणस्य श्लुः बहुलंछंदसीतिअभ्यासस्येत्वम् । महिव्रतः प्रभूतकर्मा शुचिबन्धुः बध्नन्तिशत्रूनिति बन्धूनि तेजांसि बलानिवा दीप्ततेजस्कः पावकः पापानां शोधकः वराहः वरं च तदहः वराहः राजाहःसखिभ्यष्टजिति टच्समासान्तः । तस्मिन्न- हनि अभिषूयमाणत्वेन तद्वान् अर्शआदित्वान्मत्वर्थीयःअच् तादृशःसोमः रेभन् शब्दंकुर्वन् पदा पदानि स्थानानि पात्राणि अभ्येति अभिगच्छति । यद्वा यथाकश्चनवराहः पदा पादेन भूमिं विक्रममाणः शब्दंकरोति तद्वत् ॥ ७ ॥