श्रवणम्

9.97.8
प्र हं॒सास᳚स्तृ॒पलं᳚ म॒न्युमच्छा॒मादस्तं॒ वृष᳚गणा अयासुः ।
आ॒ङ्गू॒ष्यं१॒᳚ पव᳚मानं॒ सखा᳚यो दु॒र्मर्षं᳚ सा॒कं प्र व᳚दन्ति वा॒णम् ॥
▶ पदपाठः (Word-by-word)
प्र । हं॒सासः᳚ । तृ॒पल᳚म् । म॒न्युम् । अच्छ᳚ । अ॒मात् । अस्त᳚म् । वृष᳚॑गणाः । अ॒या॒सुः॒ ।
आ॒ङ्गू॒ष्य᳚म् । पव᳚मानम् । सखा᳚यः । दुः॒॑मर्ष᳚म् । सा॒कम् । प्र । व॒द॒न्ति॒ । वा॒णम् ॥
▶ सायणभाष्यम् (Sayana Commentary)

हंसासः शत्रुभिर्हन्यमानाः हंसाइव चरन्तोवावृषगणाः एतन्नामकाऋषयः अमात् शत्रूणां बलात् त्रासिताःसन्तः तृपलं त्ऋपलशब्दःक्षिप्रचारी तदुक्तंयास्केन—तृपलप्रभर्मा- क्षिप्रप्रहारीति । क्षिप्रप्रहारिणंमन्युं शत्रूनभिहन्यमानं सोमं अच्छ अभिलक्ष्य अस्तं यज्ञगृहं प्रायासुः प्रयासिषुः प्रगच्छन्ति । ततः सखायः स्तुत्यस्तोतृत्वलक्षणेन संबन्धेन सखिभूताः स्तोतारः आंगूष्यं सर्वैरभिगंतव्यं यद्वा घोषशब्दस्य पृषोदरादित्वादांगूषइत्यादेशः आङ् अनुनासिकश्छान्दसः स्तोत्रार्हं दुर्मर्षं शत्रुभिर्दुर्धरं दुःसहं एवंविधंसोमं पवमानमुद्दिश्य वाणं वाद्यविशेषं साकं सहैवप्रवदन्ति प्रवादयन्ति तदुपलक्षितं गानंकुर्वन्तीत्यर्थः ॥ ८ ॥