श्रवणम्

9.97.3
समु᳚ प्रि॒यो मृ᳚ज्यते॒ सानो॒ अव्ये᳚ य॒शस्त᳚रो य॒शसां॒ क्षैतो᳚ अ॒स्मे ।
अ॒भि स्व᳚र॒ धन्वा᳚ पू॒यमा᳚नो यू॒यं पा᳚त स्व॒स्तिभि॒ः सदा᳚ नः ॥
▶ पदपाठः (Word-by-word)
सम् । ऊं॒ इति᳚ । प्रि॒यः । मृ॒ज्य॒ते॒ । सानौ᳚ । अव्ये᳚ । य॒शः॑त᳚रः । य॒शसा᳚म् । क्षैतः᳚ । अ॒स्मे इति᳚ ।
अ॒भि । स्व॒र॒ । धन्व᳚ । पू॒यमा᳚नः । यू॒यम् । पा॒त॒ । स्व॒स्ति॑भिः᳚ । सदा᳚ । नः॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

यशसां यशस्विनांमध्ये यशस्तरः अतिशयेनयशस्वी क्षैतः क्षितौभवः प्रियः प्रीणयिता सोमः सानौ समुच्छ्रिते अव्ये अविमये पवित्रे अस्मे अस्मदर्थं संमृज्यते ऋत्विग्भिः परिपूयते । उ अवधारणे । पूयमानस्त्वं धन्वान्तरिक्षे अभिस्वर अभितः शब्दय यूयं पूजायां बहुवचनं हे सोम त्वं नोस्मान् स्वस्तिभिः कल्याणतमैः पालनैः सदा सर्वदा पात रक्षत पालयत ॥ ३ ॥