श्रवणम्

9.97.24
प॒वित्रे᳚भि॒ः पव᳚मानो नृ॒चक्षा॒ राजा᳚ दे॒वाना᳚मु॒त मर्त्या᳚नाम् ।
द्वि॒ता भु᳚वद्रयि॒पती᳚ रयी॒णामृ॒तं भ᳚र॒त्सुभृ᳚तं॒ चार्विन्दु᳚ः ॥
▶ पदपाठः (Word-by-word)
प॒वित्रे᳚भिः । पव᳚मानः । नृ॒॑चक्षाः᳚ । राजा᳚ । दे॒वाना᳚म् । उ॒त । मर्त्या᳚नाम् ।
द्वि॒ता । भु॒व॒त् । र॒यि॒॑पतिः᳚ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सु॑भृ᳚तम् । चारु᳚ । इन्दुः᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

पवित्रेभिः पवित्रैः पवमानः पूयमानः नृचक्षाः नृणांफलाफलयोः द्रष्टा अथ देवाना- मिन्द्रादीनां उतापिच मर्त्यानां मनुष्याणां एवमुभयेषां जनानां राजा रयिपतिः धनस्य- पतिः नत्वल्पस्यपतिः किंतु रयीणां बहूनां धनानांस्वामी । वृत्यवृत्तिभ्यांस्वामित्वं बाहु- ल्यंच विवक्ष्यते । ईदृशः सोमः द्विता द्विधा देवेष्वपिच मनुष्येषु भुवत् भवति । सोय- मिन्दुः सोमः सुभृतं संभृतं चारु कल्याणं ऋतमुदकं भरत् बिभर्ति ॥ २४ ॥