तक्ष॒द्यदी॒ मन᳚सो॒ वेन᳚तो॒ वाग्ज्येष्ठ᳚स्य वा॒ धर्म᳚णि॒ क्षोरनी᳚के ।
आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ॥
आदी᳚माय॒न्वर॒मा वा᳚वशा॒ना जुष्टं॒ पतिं᳚ क॒लशे॒ गाव॒ इन्दु᳚म् ॥
पदपाठः (Word-by-word)
तक्ष᳚त् । यदि᳚ । मन᳚सः । वेन᳚तः । वाक् । ज्येष्ठ᳚स्य । वा॒ । धर्म᳚णि । क्षोः । अनी᳚के ।
आत् । ई॒म् । आ॒य॒न् । वर᳚म् । आ । वा॒व॒शा॒नाः । जुष्ट᳚म् । पति᳚म् । क॒लशे᳚ । गावः᳚ । इन्दु᳚म् ॥
आत् । ई॒म् । आ॒य॒न् । वर᳚म् । आ । वा॒व॒शा॒नाः । जुष्ट᳚म् । पति᳚म् । क॒लशे᳚ । गावः᳚ । इन्दु᳚म् ॥
सायणभाष्यम् (Sayana Commentary)
वेनतः वेनोवेनतेःकान्तिकर्मणइतियास्कः । कामयमानस्य मनसः मन्यतेःस्तुतिकर्मणः स्तोतुर्वाक् स्तुतिलक्षणायद्येनंतक्षत् संस्करेति वाशब्दउपमार्थे यथा धर्मणि निमित्तात् कर्मसंयोगइतिसप्तमी धारकं योगक्षेमविषयं कर्मोद्दिश्य क्षोःशब्दायमानस्य अनीके संग्राम- मुखे तत्र स्थितस्य जानपदिकस्य वाक् ज्येष्ठस्य द्वितीयार्थेषष्ठी प्रशस्यतमं राजानं यथा- स्तौति तथास्तोतुर्वाक् सोमंस्तौतीत्यर्थः । आदनंतरमेव वरं वरणीयं जुष्टं देवानां मदाय- पर्याप्ते पतिं सर्वस्य पालकं कलशे स्थितं इन्दुं ईमेनं सोमं वावशानाः कामयमानाः गावआयन् पयसा स्वीये नमि श्रयितुमागच्छंति ॥ २२ ॥