श्रवणम्

9.97.10 समानपद
इन्दु᳚र्वा॒जी प᳚वते॒ गोन्यो᳚घा॒ इन्द्रे॒ सोम॒ः सह॒ इन्व॒न्मदा᳚य ।
हन्ति॒ रक्षो॒ बाध᳚ते॒ पर्यरा᳚ती॒र्वरि᳚वः कृ॒ण्वन्वृ॒जन᳚स्य॒ राजा᳚ ॥
▶ पदपाठः (Word-by-word)
इन्दुः᳚ । वा॒जी । प॒व॒ते॒ । गो॑न्यो᳚घाः । इन्द्रे᳚ । सोमः᳚ । सह᳚ । इन्व᳚न् । मदा᳚य ।
हन्ति᳚ । रक्षः᳚ । बाध᳚ते । परि᳚ । अरा᳚तीः । वरि᳚वः । कृ॒ण्वन् । वृ॒जन᳚स्य । राजा᳚ ॥
▶ सायणभाष्यम् (Sayana Commentary)

इन्दुः क्षरणशीलः वाजी बलवान् गोन्योघाः गमनशीलनीचीनाग्ररससंघातः इन्द्रे स- होबलकररसं इन्वन् प्रेरयन् सोमः मदाय तस्यमदार्थं पवते क्षरति । किंच रक्षःकुलं हन्ति हिनस्ति । किंच अरातीः अरातीन् शत्रून्परिबाधते परितः संहरति । कीदृशः वरिवोवरणीयं धनं कृण्वन् स्तोतॄणां कुर्वन् वृजनस्य बलस्यराजा ईशितासोमइति ॥ १० ॥