वृषा॒ शोणो᳚ अभि॒कनि᳚क्रद॒द्गा न॒दय᳚न्नेति पृथि॒वीमु॒त द्याम् ।
इन्द्र᳚स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र᳚चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ॥
इन्द्र᳚स्येव व॒ग्नुरा शृ᳚ण्व आ॒जौ प्र᳚चे॒तय᳚न्नर्षति॒ वाच॒मेमाम् ॥
पदपाठः (Word-by-word)
वृषा᳚ । शोणः᳚ । अ॒भि॒॑कनि᳚क्रदत् । गाः । न॒दय᳚न् । ए॒ति॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।
इन्द्र᳚स्य॑इव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒॑चे॒तय᳚न् । अ॒र्ष॒ति॒ । वाच᳚म् । आ । इ॒माम् ॥
इन्द्र᳚स्य॑इव । व॒ग्नुः । आ । शृ॒ण्वे॒ । आ॒जौ । प्र॒॑चे॒तय᳚न् । अ॒र्ष॒ति॒ । वाच᳚म् । आ । इ॒माम् ॥
सायणभाष्यम् (Sayana Commentary)
शोणः शोणवर्णोवृषा कश्चिद्वृषभः गाः पशून् अभिकनिक्रदत् अभिलक्ष्य शब्दंकरोति । एवं गाः स्तुतीः विश्रयणार्थं पयसोदोग्ध्रीर्धेनूः वा अभिकनिक्रदत् अभिशब्दायमानः तदे- वाह नदयन् शब्दमुत्पादयन् सोमः पृथिवीं उतापिच द्यां एतौलोकौ एति गच्छति । किंच वग्नुः वाङ्नामैतत् तस्य वाक् सुशब्दः आजौ संग्रामे इन्द्रस्येव इन्द्रस्यशब्दइव आश्रृण्वे सर्वैः श्रूयते । ततः प्रचेतयन् आत्मानं सर्वेषां प्रज्ञापयन् इमां वाचमार्षति समं- ताद्गमयति उच्चैः शब्दायतेइत्यर्थः ॥ १३ ॥