श्रवणम्

9.97.50
अ॒भि वस्त्रा᳚ सुवस॒नान्य᳚र्षा॒भि धे॒नूः सु॒दुघा᳚ः पू॒यमा᳚नः ।
अ॒भि च॒न्द्रा भर्त᳚वे नो॒ हिर᳚ण्या॒भ्यश्वा᳚न्र॒थिनो᳚ देव सोम ॥
▶ पदपाठः (Word-by-word)
अ॒भि । वस्त्रा᳚ । सु॒॑व॒स॒नानि᳚ । अ॒र्ष॒ । अ॒भि । धे॒नूः । सु॒॑दुघाः᳚ । पू॒यमा᳚नः ।
अ॒भि । च॒न्द्रा । भर्त᳚वे । नः॒ । हिर᳚ण्या । अ॒भि । अश्वा᳚न् । र॒थिनः᳚ । दे॒व॒ । सो॒म॒ ॥
▶ सायणभाष्यम् (Sayana Commentary)

हे सोम त्वमस्माकं सुवसनानि सुपरिधानानि वस्त्रा वस्त्राणि अभ्यर्ष अभिगमय । यद्वा सुवसनानि शोभनवस्त्रसहितानि वस्त्रा आच्छादकानि धनान्यभिगमय । किंच पूय- मानः पवित्रेण त्वं सुदुघाः सुष्ठुपयसोदोग्ध्रीः धेनूः नवप्रसूतिकागाः अभिप्रापय । अपि च चन्द्रा चन्द्राण्याह्लादकानि हिरण्या हिरण्यानि भर्तवे भरणाय पोषणाय नोस्माकमभि- गमय । तथा हेदेव स्तोतव्य हेसोम रथिनोरथवतोश्वान् अस्माकमभिप्रापय ॥ ५० ॥